|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.56. अध्यायः 056
Mahabharata - Bhishma Parva - Chapter Topics
उभयपक्षयोर्व्यूहरचना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-56-0x(4122)(41070)
प्रभातायां च शर्वर्यां भीष्मः शान्तनस्तदा।
अनीकान्यनुसंयाने व्यादिदेशाय भारत ॥ 6-56-1(41071)
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा।
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः । 6-56-2(41072)
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव।
चक्षुषी च भरज्वाजः कृतवर्मा च सात्वतः ॥ 6-56-3(41073)
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ ।
त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे ॥ 6-56-4(41074)
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।
मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये ॥ 6-56-5(41075)
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः ।
पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ॥ 6-56-6(41076)
विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह।
पच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥ 6-56-7(41077)
मागधाश्च कलिङ्गाश्च दासेरकगणैः सह ।
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥ 6-56-8(41078)
काकरुशा विकुञ्चाश्च मुण्डाः कुण्डीवृषास्तथा।
बृहद्वलेन सहिता वामं पार्श्वमवस्थिताः ॥ 6-56-9(41079)
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः।
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥ 6-56-10(41080)
अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् ।
दक्षिणं शृङ्गमास्वय भिमसेनो व्यरोचत ॥ 6-56-11(41081)
नानासंस्त्रौपसंषत्रैर्नानादेश्यैर्नृपैर्वृतः ।
तदन्येव विराटश्च द्रुपदश्च महारथः ॥ 6-56-12(41082)
तदनन्तरमेवासीन्नीलो नीलायुधैः सह ।
नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः ॥ 6-56-13(41083)
चेदिकाशिकरूपेश्च पौरवैरपि संवृतः।
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ॥ 6-56-14(41084)
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत।
तत्रैव धर्मराजोऽपि गजानीकेन संवृतः । 6-56-15(41085)
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ।
अभिमन्युस्ततः शूर इरावांश्च ततः परम् ॥ 6-56-16(41086)
भैमसेनिस्ततो राजन्केकयाश्च महारथाः ।
एते सर्वे महाराज वामं पार्श्वमुपाश्रिताः ॥ 6-56-17(41087)
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः।
`तत्रानुरथिनां श्रेष्ठो वामश्रृङ्गे व्यवस्थितः।'
एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ॥ 6-56-18(41088)
वधार्थं तव पुत्रामां तत्पक्षे ये च सङ्गताः ।
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ॥ 6-56-19(41089)
तावकानां परेषां च निघ्नतामितरेतरम् ।
हयौघाश्च रथौघाश्व तत्र तत्र विशांपते ॥ 6-56-20(41090)
संपतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् ।
धावतां च रथोघानां निघ्नतां च पृथक् पृथक् ॥ 6-56-21(41091)
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ।
दिवस्पृङ्वरवीराणां निघ्नतामितरेतरम् ।
संप्रहारे सुतुमुले तव तेषां च भारत ॥ ॥ 6-56-22(41092)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे षट्पञ्चाशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-56-17 ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमपाश्रितः इति खo पाठः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|